|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.217. अध्यायः 217
Mahabharata - Vana Parva - Chapter Topics
धर्मव्याधेन कौशिकाय स्वगृहप्रवेशनपूर्वकं वृद्धयोः स्वपित्रोः प्रदर्शनम् ॥ 1 ॥ तथा मातापितृविषये स्वानुसंधानप्रकारनिवेदनम् ॥ 2 ॥
Mahabharata - Vana Parva - Chapter Text
मार्कण्डेय उवाच। 3-217-0x(2502)(24492)
एवं संकथिते कृत्स्ने मोक्षधर्मे युधिष्ठिर।
दृढप्रीतमना विप्रो धर्मव्याधमुवाच ह ॥ 3-217-1(24493)
न्याययुक्तमिदं सर्वं भवता परिकीर्तितम्।
न तेऽस्त्यविदितं किंचिद्धर्मेष्वभिसमीक्ष्यते ॥ 3-217-2(24494)
व्याध उवाच। 3-217-3x(2503)
प्रत्यक्षं मम यो धर्मस्तं च पश्य द्विजोत्तम।
येन सिद्धिरियं प्राप्ता मया ब्राह्मणपुङ्गव ॥ 3-217-3(24495)
उत्तिष्ठ भगवन्क्षिप्रं प्रविश्याभ्यन्तरं गृहम्।
द्रष्टुमर्हसि धर्मज्ञ मातरं पितरं च मे ॥ 3-217-4(24496)
इत्युक्तः स प्रविश्याथ ददर्श परमार्चितम्।
सौधं हृद्यं चतुःशालमतीव च मनोरमम् ॥ 3-217-5(24497)
देवतागृहसंकाश दैवतैश्च सुपूजितम्।
शयनासनसंबाधं गन्धैश्च परमैर्युतम् ॥ 3-217-6(24498)
तत्रशुक्लाम्बरधरौ पितरावस्य पूजितौ।
कृताहारौ तु संतुष्टावुपविष्टौ वरासने ॥ 3-217-7(24499)
`तस्य व्याधस्य पितरौ ब्राह्मणः संददर्श ह'।
धर्मव्याधस्तु तौ दृष्ट्वा पादेषु शिरसाऽपतत् ॥ 3-217-8(24500)
वृद्धावूचतुः। 3-217-9x(2504)
उत्तिष्ठोत्तिष्ठ धर्मज्ञ धर्मस्त्वामभिरक्षतु।
प्रीतौ स्वस्तव शौचेन दीर्घमायुरवाप्नुहि।
[गतिमिष्टां तपो ज्ञानं मेधां च परमां गतः] ॥ 3-217-9(24501)
सत्पुत्रेण त्वया पुत्र नित्यं काले सुपूजितौ।
`सुखमेव वसावोऽत्र देवलोकगताविव' ॥ 3-217-10(24502)
न तेऽन्यद्दैवतं किंचिद्दैवतेष्वपि वर्तते।
प्रयतसत्वाद्द्विजातीनांदमेनासि समनवितः ॥ 3-217-11(24503)
पितुः पितामहा ये च तथैव प्रपितामहाः।
प्रीतास्ते सततं पुत्र दमेनावां च पूजया ॥ 3-217-12(24504)
मनसा कर्मणा वाचा शुश्रूषा नैव हीयते।
न चान्या हि तथा बुद्धिर्दृश्यते सांप्रतं तव ॥ 3-217-13(24505)
जामदग्न्येन रामेण यथा वृद्धौ सुपूजितौ।
तथा त्वया कृतंसर्वंतद्विशिष्टं च पुत्रक ॥ 3-217-14(24506)
मार्कण्डेय उवाच। 3-217-15x(2505)
ततस्तं ब्राह्मणं ताभ्यां धर्मव्याधो न्यवेदयत्।
तौ स्वागतेन तं विप्रमर्चयामासतुस्तदा ॥ 3-217-15(24507)
प्रतिगृह्यच तां पूजां द्विजः पप्रच्छ तावुभौ।
सपुत्राभ्यां सभृत्याभ्यां कच्चिद्वां कुशलं गृहे।
अनामय च वां कच्चित्सुखं वेह शरीरयोः ॥ 3-217-16(24508)
वृद्धावूचतुः। 3-217-17x(2506)
कुशलं नौ गृहे विप्र भृत्यवर्गे च सर्वशः।
कच्चित्त्वमप्यविघ्नेन संप्राप्तो भगवन्निति ॥ 3-217-17(24509)
मार्कण्डेय उवाच। 3-217-18x(2507)
हाढमित्येव तौ विप्रः प्रत्युवाच मुदान्वितः।
धर्मव्याधस्तु तं विप्रमर्थवद्वाक्यमब्रवीत् ॥ 3-217-18(24510)
पिता माता च भगवन्नेतौ मे दैवतं परम्।
यद्दैवतेभ्यः कर्तव्यं तदेताभ्यां करोम्यहम् ॥ 3-217-19(24511)
त्रयस्त्रिंशद्यथा देवाः सर्वे शक्रपुरोगमाः।
संपूज्याः सर्वलोकस्य तथा वृद्धाविमौ मम ॥ 3-217-20(24512)
उपाहारानाहरन्तो देवतानां यथा द्विजः।
कुर्वन्ति तद्वदेताभ्यां करोम्यहमतन्द्रितः ॥ 3-217-21(24513)
एतौ मे परमं ब्रह्मन्पिता माता च दैवतम्।
एतौ पुष्पैः फलैरन्नैस्तोषयामि सदा द्विज ॥ 3-217-22(24514)
एतावेवाग्नयो मह्यं यान्वदन्ति मनीषिणः।
यज्ञा वेदाश्च चत्वारः सर्वमेतौ मम द्विज ॥ 3-217-23(24515)
एतदर्थं मम प्राणा भार्या पुत्रः सुहृज्जनः।
सपुत्रदारः शुश्रूषां नित्यमेव करोम्यहम् ॥ 3-217-24(24516)
स्वयं च स्नापयाम्येतौ तथा पादौ प्रधावये।
आहारं च प्रयच्छामि स्वयंच द्विजसत्तम ॥ 3-217-25(24517)
अनुकूलाः कथा वच्मि विप्रियं परिवर्जये।
अधर्मेणापि संयुक्तं प्रियमाभ्यां करोम्यहम् ॥ 3-217-26(24518)
धर्ममेव गुरुं मत्वा साक्षादेतौ द्विजोत्तम।
अतन्द्रितः सदा विप्र शुश्रूषां वै करोम्यहम् ॥ 3-217-27(24519)
पञ्चैव गुरवो ब्रह्मनपुरुषस्य बुभूषतः।
पिता माताऽग्निरात्मा च गुरुश्च द्विजसत्तम ॥ 3-217-28(24520)
एतेषु यस्तु वर्तेत सम्यगेव द्विजोत्तम।
भवेयुरप्रयस्तेन परिचीर्णास्तु नित्यशः।
गार्हस्थ्ये वर्तमानस्य एष धर्मः सनातनः ॥ 3-217-29(24521)
इति श्रीमन्महाभारते अरण्यपर्वणि मार्कण्डेयसमास्यापर्वणि सप्तदशाधिकद्विशततमोऽध्यायः ॥ 217 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-217-6 शयनासनसबाधं शयनादिसंकीर्णम् ॥ 3-217-16 वां युवयोः ॥ 3-217-17 नौ आवयोः ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|